51st ALL INDIA ORIENTAL CONFERENCE 2024

पण्डितपरिषत्

एकपञ्चाशत्तमी-अखिलभारतीयप्राच्यविद्यापरिषद् (51st AIOC 2024) अन्तर्गततया उडुपि-श्रीकृष्ण-मठ-परिसरे अस्यैव हायनस्य अक्टोबर्-मासस्य 24 दिनाङ्कतः 26 दिनाङ्कपर्यन्तं भारतीयविद्वत्परिषद्, केन्द्रीयसंस्कृतविश्वविद्यालयः, पर्याय-श्रीपुत्तिगे-मठः च इत्येतेषां सहयोगेन “त्रिदिवसीया राष्ट्रिया संगोष्ठी” समायोज्यते इति सर्वेषां विदितविषय एव। अस्मिन् कार्यक्रमे सर्वेऽपि युवविद्वांसः/युवविदुष्यश्च भागम् ऊढ्वा स्वविषयम् उपस्थापयितुम् अर्हन्ति। युवविदुषां वाक्यार्थसभा ’विद्यामान्ययुवपण्डितपरिषन्नाम्ना’ भविष्यति । विदुषीनां तु ’कल्याणीयुवपण्डितापरिषन्नाम्ना’ सभा भविष्यति ।

वाक्यार्थार्थं नियमाः
1. युवविदुषां कृते अयम् अपूर्वः अवकाशः। वयोमितिः 18-40 वर्षाणि यावत्।
2. भागग्रहीता योग्यविद्वत्सकाशात् अध्ययनप्रमाणपत्रम् आनयेत्  ।
3. वाक्यार्थस्य उपस्थापनसमयः 10- 15 निमेषपरिमितम्। आहत्य एकस्य विदुषः कृते पञ्चदशनिमेषात्मकः कालावकाशः प्रदीयते।
4. वाक्यार्थस्य उपस्थापनानन्तरं निमेषपञ्चकं यावत् प्रश्नोत्तरं भविष्यति।
5. विद्यामान्य युवपण्डितपरिषदि पुरुषाणां महिलानां च समानावकाशः। किन्तु कल्याणीयुवपण्डितापरिषदि तु केवलं युवतीनां पण्डितानामेव अवकाशः ।
6. सर्वेषां न्यायव्याकरणादि-विभागानां पर्यायेण विषयोपस्थापनावकाशः।
7. स्वशास्त्रेषु उद्ग्रन्थस्थः विषयः उपस्थापनीयः।
8. निर्दिष्ट-परिसन्धि-द्वारा सर्वेऽपि विद्वांसः स्वविषयं स्वपरिचयं च प्रेषयेयुः।
9. गमनागमनार्थं रेल्-यानस्य 3rd AC शुल्कं प्रदीयते । आवास-भोजनव्यवस्था च प्रकल्यते ।



Paṇḍitapariṣat

The 51st session of the All India Oriental Conference will be held at Udupi Krishna Matha from October 24th to 26th, 2024, jointly organized by Bharatiya Vidvat Parishat, Central Sanskrit University, and Paryaya Shri Puttige Matha. Young scholars (both male and female) are invited to participate in the Pandita Parishad. 
“vidyāmānyayuvapaṇḍitapariṣad” for all young scholars
kalyāṇīyuvapaṇḍitāpariṣad” exclusively for young female scholars.


Rules and regulations for Pandita Parishad:
1. Opportunity for young scholars aged 18-40 only.
2. Participants must bring a certificate of study from a qualified scholar.
3. Time allocated for the presentation is approximately 10 to 15 minutes.
4. A five minutes of Q & A will follow the presentation.
5. vidyāmānyayuvapaṇḍitapariṣad is open to all young male and female scholars. However, kalyāṇīyuvapaṇḍitāpariṣad is open only to female scholars (vidushis).
6. Topics may be chosen from across any of the well-known Granthas.
7. Present the subject in accordance with the texts in the chosen shastra.
8. All scholars should submit their topics and introductions through the website provided.
9. Third AC train fair, boarding and lodging will be provided.


AIOC Registration
AIOC Abstract
Email: bvparishat@gmail.com
Contact: 9742269403 / 9482065842

For more details and abstract submission Click Here

For AIOC membership: Click Here

© 2024 | Copyright All Right Reserved

Full paper submission is closed for AIOC 2024. You may still submit the abstract!

X