वाक्यार्थगोष्ठीविनोदः
अस्यैव हायनस्य अक्टोबर्-मासस्य 24 दिनाङ्कतः 26 दिनाङ्गपर्यन्तं AIOC अन्तर्गततया उडुपि-श्रीकृष्ण-मठ-परिसरे त्रिदिवसीया राष्ट्रिया संगोष्ठी भारतीयविद्वत्परिषदः पर्याय-पुत्तिगे-मठस्य च सहयोगेन समायोजिता इति सर्वेषां विदितविषय एव। अस्मिन् कार्यक्रमे सर्वेऽपि विद्वांसः भागम् ऊढ्वा स्वविषयम् उपस्थापयितुम् अर्हन्ति।
भागग्रहणार्थम् इच्छुकाः स्वपरिचयं Video-माध्यमेन प्रेषयेयुः। अधोलिखितनियमाः सर्वैः परिपालनीयाः।
- युवविदुषां (वयोमितिः – 18-34 वर्षाणि यावत्) कृते अयम् अपूर्वः अवकाशः।
- भागग्रहीतृभिः प्रतिष्ठितसंस्थासु अथवा साम्प्रदायिक-गुरुकुलेषु कनिष्ठं 6-8 वर्षपर्यन्तम् अधीतं स्यात्।
- अन्यत्र प्रतिष्ठितासु संस्थासु भागग्रहणस्य अनुभवः स्यात्।
- भागग्राहिणाम् अध्यापनानुभवः इष्टः।
- वाक्यार्थस्य उपस्थापनसमयः 10-15 निमेषपरिमितम्।
- वाक्यार्थस्य उपस्थापनानन्तरं निमेषपञ्चकं यावत् प्रश्नोत्तरं भविष्यति।
- आहत्य एकस्य विदुषः कृते विंशतिनिमेषात्मकः कालावकाशः प्रदीयते।
- अस्यां गोष्ठ्यां पुरुषाणां महिलानां च अवकाशः।
- सर्वेषां न्यायव्याकरणादि-विभागानां पर्यायेण विषयोपस्थापनावकाशः।
- स्वशास्त्रेषु उद्ग्रन्थस्थः विषयः उपस्थापनीयः।
- निर्दिष्ट-परिसन्धि-द्वारा सर्वेऽपि विद्वांसः स्वविषयं स्वपरिचयं च प्रेषयेयुः।